|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.91. अध्यायः 091
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
च्यवनेन कुशिकम्प्रति स्वकुले जनिष्यत ऋचीकस्यानुभावेन तद्भार्याश्वश्र्वो कुशिकपौत्रस्य गाधेः पुत्रीपत्र्योः क्रमेण पौत्रपुत्रभावेन
परशुरामविश्वामित्रयोर्जन्मकथनम्॥ 1 ॥

Mahabharata - Anushaasana Parva - Chapter Text
च्यवन उवाच।
अवश्यं कथनीयं मे तवैतन्नरपुङ्गव।
यदर्थं त्वाहमुच्छेत्तुं सम्प्राप्तो मनुजाधिप॥ 13-91-1(85083)
भूगूणां क्षत्रिया याज्या नित्यमेतज्जनाधिप।
ते च भेदं गमिष्यन्ति दैवयुक्तेन हेतुना॥ 13-91-2(85084)
क्षत्रियाश्च भृगून्सर्वान्वधिष्यन्ति नराधिप।
आगर्भादनुकृन्तन्तो दैतदण्डनिपीडिताः॥ 13-91-3(85085)
तत उत्पत्स्यतेऽस्माकं कुले गोत्रविवर्धनः।
और्वो नाम महातेजा ज्वलितार्कसमद्युतिः॥ 13-91-4(85086)
स त्रैलोक्यविनाशाय कोपाग्निं जनयिष्यति।
महीं सपर्वतवनां यः करिष्यति भस्मसात्। 13-91-5(85087)
कञ्चित्कालं तु वह्निं च स एव शमयिष्यति।
समुद्रे वडवावक्त्रे प्रक्षिप्य मुनिसत्तमः। 13-91-6(85088)
पुत्रं तस्य महाराज ऋचीकं भृगुनन्दनम्।
साक्षात्कृत्स्नो धनुर्वेदः समुपस्थास्यतेऽनघ॥ 13-91-7(85089)
क्षत्रियाणामभावाय दैवयुक्तेनु हेतुना।
स तु तं प्रतिगृह्यैव पुत्रे संक्रामयिष्यति॥ 13-91-8(85090)
जमदग्नौ महाभागे तपसा भावितात्मनि।
स चापि भृगुशार्दूलस्तं वेदं धारयिष्यति॥ 13-91-9(85091)
कुलात्तु तव धर्मात्मन्कन्यां सोऽधिगमिष्यति।
उद्भावनार्थं भवतो वंशस्य भरतर्षभ॥ 13-91-10(85092)
`क्षत्रहन्ता भवेद्धिंस्र इति दैवं सनातनम्।
नारायणमुपास्यास्य वरात्तं पुत्रमृच्छति॥' 13-91-11(85093)
गाधेर्दुहितरं प्राप्यि पौत्रीं तव महातपाः।
ब्राह्मणं क्षत्रधर्माणं पुत्रमुत्पादयिष्यति॥ 13-91-12(85094)
क्षत्रियं विप्रधर्माणं बृहस्पतिमिवौजसा।
विश्वामित्रं तव कुले गाधेः पुत्रं सुधार्मिकम्।
तपसा महता युक्तं प्रदास्यति महाद्युते॥ 13-91-13(85095)
स्त्रियौ तु कारणं तत्र परिवर्ते भविष्यतः।
पितामहनियोगाद्वै नान्यथैतद्भविष्यति॥ 13-91-14(85096)
तृतीये पुरुषे तुभ्यं ब्राह्मणत्वमुपैष्यति।
भविता त्वं च सम्बन्धी भृगूणां भावितात्मनाम्॥ 13-91-15(85097)
भीष्म उवाच। 13-91-16x(7078)
कुशिकस्तु मुनेर्वाक्यं च्यवनस्य महात्मनः।
श्रुत्वा हृष्टोऽभवद्राजा वाक्यं चेदमुवाच ह।
एवमस्त्विति धर्मात्मा तदा भरतसत्तम॥ 13-91-16(85098)
च्यवनस्तु महातेजाः पुनरेव नराधिपम्।
वरार्थं चोदयामास तमुवाच स पार्थिवः॥ 13-91-17(85099)
बाढमेवं ग्रहीष्यामि कामांस्त्वत्तो महामुने।
ब्रह्मभूतं कुलं मेऽस्तु धर्मे चास्य मनो भवेत्॥ 13-91-18(85100)
एवमुक्तस्तथेत्येवं प्रत्युक्त्वा च्यवनो मुनिः।
अभ्यनुज्ञाय नृपतिं तीर्थयात्रां ययौ तदा॥ 13-91-19(85101)
एतत्ते कथितं सर्वमशेषेण मया नृप।
भृगूणां कुशिकानां च अभिसम्बन्धकारणम्॥ 13-91-20(85102)
यथोक्तमृषिणा चापि तदा तदभवन्नृप।
जन्म रामस्य च मुनेर्विश्वामित्रस्य चैव हि॥ ॥ 13-91-21(85103)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकनवतितमोऽध्यायः॥ 91 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-91-15 तुभ्यं तव। ब्राह्मणत्वं कर्तृ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|